३६०

अथैतत्त्र्यहविधं भवति ।

त्रयो ह वा ऋतवोऽनृतवोऽन्ये ।

ग्रीष्मो वर्षा हेमन्त एते ह वा ऋद्धा ऋतव उपश्लेषगा इवान्ये ।

ते य ऋद्धा ऋतवस्ते न उपाप्ता असन्निति ।

त्रीणि वाव छन्दांसि त्रीणि सवनानि त्रयः प्राणापानाव्यानास्त्रय इमे लोकाः ।

यत्किं च त्रिस्त्रिस्तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।

पञ्चैते परस्तात्त्र्यहा भवन्ति पञ्चावस्तात् ।

तेनो एव पञ्चाहविधतायै न यन्ति ।

अथैष विश्वजित्सर्वपृष्ठोऽतिरात्रो भवति प्राजापत्यमहरहोरात्रे वै कृत्स्नः प्रजापतिः कृत्स्नं प्रजापतिमृध्नवाम कृत्स्नो नः प्रजापतिरुपेतोऽसदिति ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं विश्वजितमतिरात्रमुपयन्ति ।

प्रजापतिं ह्येव प्रत्यक्षमुपयन्तीति ।

तद्यत्परस्ताद्प्रत्यञ्चः पञ्च त्र्यहा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३६०