३५९

अथैता द्वादशाहवतीर्भवन्ति यैवासौ द्वादशाहवतीनां प्रशंसा सा न उपाप्तासदिति ।

इदमिव त्वत्रोपाधीयते ।

ता वा त्वै पुरस्तादुपेयुस्ता वोपरिष्टात् ।

यदि पुरस्तादुपेयुः प्रायणीयस्यैवाह्नोऽछम्बट्काराय ।

तदिव त्वत्र परिचक्षते यद्वाचमोहुषीं दशमेनाह्नासम्पाद्य तस्यै विकृष्टायै वाचोऽप्रतिष्ठिताया उदृचमश्नुवते ।

यदेव तत्र प्रायणीयरूपं मन्येरंस्तदेव तत्र कुर्युः ।

प्रत्नवत्प्रेतिवत्सम्पन्नायै वाचोऽविकृष्टायै प्रतिष्ठाया उदृचमश्नवामहा इति ।

अथैष विश्वजित्सर्वपृष्ठोऽतिरात्रो भवति प्राजापत्यमहरहोरात्रे वै कृत्स्नः प्रजापतिः कृत्स्नं प्रजापतिमृध्नवाम कृत्स्नो नः प्रजापतिरुपेतोऽसदिति ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं विश्वजितमतिरात्रमुपयन्ति ।

प्रजापतिं ह्येव प्रत्यक्षमुपयन्तीति ।

तद्यत्परस्ताद्प्रत्यङ्पञ्चाहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३५९