\तद्धोतारं ब्रूयादुभे रूपे संस यच्च राथन्तरं यच्च बार्हतमिति ।
यत्रायुषि बृहत्सम्पद्येत तद्धोतारं ब्रूयादुभे रूपे शंस यच्च बार्हतं यच्च राथन्तरमिति ।
यद्युभे राथन्तरे अहनी सम्पद्येयातां पूर्वस्याह्नस्सौभरमुक्थ्येषु ब्रह्मसाम कुर्युर् ।
यद्युभे बार्हते अहनी सम्पद्येयातामुत्तरस्याह्नः कण्वरथन्तरं माध्यन्दिने पवमाने प्रोहेयुः ।
प्रजा वा एषा बृहद्र थन्तयोर्यदेते सामनी ।
तद्यदेवमुपयन्त्यजामिताया एव ।
अथैष विश्वजित्सर्वपृष्ठोऽतिरात्रो भवति प्राजापत्यमहरहोरात्रे वै कृत्स्नः प्रजापतिः कृत्स्नं प्रजापतिमृध्नवाम कृत्स्नो नः प्रजापतिरुपेतोऽसदिति ।
तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं विश्वजितमतिरात्रमुपयन्ति ।
प्रजापतिं ह्येव प्रत्यक्षमुपयन्तीति ।
तद्यत्परस्ताद्प्रत्यञ्चः त्रयः पञ्चाहा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३५८