३५७

अथैते ज्योतिर्गौरायुरिति स्तोमा भवन्ति ।

एते ह वै शिवाश्शान्ताः पथ्या स्तोमा ये ज्योतिर्गौरायुरिति ।

ते ये शिवाश्शान्ताः पथ्या स्तोमास्तैर्न स्तुतमसदिति ।

त उ विराजं सम्पन्नाः ।

तदु विराजमन्नाद्यमारभन्ते ।

तामान्तं नावसृजेयुः ।

बृहद्र थन्तरे सामनी भवतः ।

सा ह्यृद्धिस्स पन्थाः ।

श्यैतनौधसे ब्रह्मसामनी भवतः ।

प्रस्पष्टमाजिमनु शूकरवामेति ।

तद्यत्तृतीयेऽहनि रथन्तरं सम्पद्येत तद्वैरूपमुपेयुः ।

इदं वै रथन्तरमदो बृहदिदमेवान्तरिक्षं वैरूपम् ।

एतयोरेव साम्नोरसमदे ।

अथ ह वै निष्करणीया इति ब्राह्मणाः पूर्विणस्सत्रं निषेदुः ।

तेषां ह स्म वासिष्ठस्सात्यहव्य आसद्य सोमं भक्षयित्वा प्रधावति ।

ते हाभिशस्तिं चक्रिरे कथं नु नो दीक्षितानामदीक्षितास्सोमं भक्षयेयुरिति ।

ते हैतदेकमहर्वैरूपमुपेयुः ।

स ह पुनरासद्य तूष्णीमेवेक्षमाणो निषसाद ।

तं होचुः कथं न सर्पसि कथं न भक्षयसीति ।

स होवाच सत्रिणो वा अभूत दीर्घसोमो वाव वः पुराभूदिति ।

तद्यत्तृतीयेऽहनि वैरूपमुपयन्ति सत्रिताया एव ।

ते वा एते सामनी अन्यदन्यदहरुपपद्यमाने इतः यत्र गवि रथन्तरं सम्पद्येत ३५७