अथैते पञ्चाहा भवन्ति पञ्च वै जयाः ।
पञ्चभिर्वै व्याहृतिभिरिदं देवा अजयंस्तद्यावतेदं देवा अजयंस्तावता जयामेति ।
पाङ्क्तो यज्ञः ।
यावती यज्ञस्य मात्रा तामाप्नवामेति ।
पाङ्क्ताः पशवः ।
यावती पशूनां मात्रा तावता नः पशवोऽवरुद्धा उपतिष्ठान्ता इति ।
पाङ्क्तमन्नाद्यं यावत्यन्नाद्यस्य मात्रा तावता नोऽन्नाद्यमवरुद्धमुपतिष्ठाता इति ।
अथ स्माहुः कापेया अनृतौ वा एष प्रतिष्ठितो यत्षडहः ।
पञ्चाहो वा ऋतौ प्रतिष्ठित इति ।
वसन्तो वै प्रथम ऋतूनां ग्रीष्मो द्वितीयो वर्षास्तृतीयाश्शरच्चतुर्थी हेमन्तः पञ्चमश्शिशिरष्षष्ठः ।
स एष श्रेष्ठ ऋतूनां यद्धेमन्तः पीवगुः पीववत्सः ।
तमनु पञ्चाहः प्रतितिष्ठन्नेति ।
अथैष परिचक्ष्यैव यच्छिशिरः कृशगुः कृशपुरुषः ।
तमनु षडहः प्रतितिष्ठति ।
स य श्रेष्ठ ऋतूनां हेमन्तस्तस्य प्रतिष्ठामनु प्रतितिष्ठन्तोऽयामेति ।
तस्मादेतत्पञ्चाहविधमुपयन्ति ।
वैश्वानरः प्रायणीयोऽतिरात्रो भवति ।
वैश्वानरप्रायणा ह्यहीनास्सोमाः ३५६