३५५

द्विमास्यं वा एतत्सत्रम् ।

तेन यर्द्धिस्सैवर्द्धिः ।

यौ ह खलु वै द्वौ मासावृतोस्सर्द्धिः ।

ऋतुरु प्रत्यक्षं संवत्सरस्यर्द्धिः ।

संवत्सरं वा एतदीर्त्सन्ति संवत्सरमीप्सन्ति यद्यजन्ते यत्सत्रमासते ।

न हि किं चन बहिस्संवत्सरादस्ति ।

स्वाराज्यं वा एता रात्रयो यत्त्रयस्त्रिंशत्षोडश परस्तादहानि षोडशावस्तात् ।

अथ यन्मध्ये अहस्स स्वराट्स स्वर्गो लोकः ।

तद्ब्रध्नस्य विष्टपं गच्छन्ति तत्स्वाराज्यं गच्छन्ति ।

तदन्यस्याननुयाना भवन्ति ।

ता वा एता रात्रयस्सम्पद्यन्ते विराजमेव ।

तदु विराजोऽन्नाद्यस्यैश्वर्यमाधिपत्यं गच्छन्ति ।

तिस्रश्च विराट्च ।

ता यास्तिस्रो दैवीराच्छदस्तासामेषर्द्धिर्यानि त्रीणि छन्दांसि यानि त्रीणि सवनानि ये त्रयः प्राणापानाव्याना ये त्रय इमे लोकाः ।

यत्किं च त्रिस्त्रिस्तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।

देवसत्रं ह खलु वा एतद्यदेष त्रयस्त्रिंशद्रा त्रः ।

त्रयस्त्रिंशद्वै देवताः ।

देवता वा ऋद्धिकामास्तपोऽतप्यन्त ।

ता एतदयनमपश्यन् ।

तदुपायन् ।

ततो वै तासामह्नैवैकार्ध्नोदह्नैकाह्नैका ।

सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यमेतेन देवता आर्ध्नुवन् ।

सा या श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यमेतेन देवता आर्ध्नुवंस्तमृध्नवामेति ।

तस्मादेता रात्रीरुपयन्ति ३५५