संवत्सरस्य ह खलु वा एष रसः प्रवृढो यदेष पञ्चविंशतिरात्रः ।
एतद्धि सर्वं संवत्सररूपं क्रियते ।
एतावतिरात्रावेते आरम्भणीयमहाव्रतीये अहनी एतौ पृष्ठ्यावेतौ विश्वजिदभिजितावेते स्वरसामान एष विषुवान् ।
ते ये कामङ्कामं समारेभाणा इव मन्येरंस्त एतमेव पञ्चविंशतिरात्रमुपेयुः ।
आप्त्वा हैवैतत्सत्रमुत्तिष्ठन्ति ।
पुरुषसम्मितं ह खलु वा एतत्सत्रं यदेष पञ्चविंशतिरात्रः ।
दश वै पुरुषस्य हस्त्या अङ्गुलयो दश पद्याश्चत्वारि प्राङ्गाण्यात्मा पञ्चविंशः ।
षडिमानि पर्वाणि षडिमानि षडिमानि षडिमान्यात्मा पञ्चविंशः ।
द्वादशेमाः परिशवो द्वादशेमा आत्मैव पञ्चविंशः ।
पुरुषं वावैतेन संस्कुर्वन्ति पुरुषं प्रजनयन्ति ।
तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं पञ्चविंशतिरात्रमुपयन्तीति ।
तद्यत्परस्ताद्प्रत्यङ्पृष्ठ्यष्षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।
महाव्रतीयादध्यह्न उत्तिष्ठन्त्यन्नं वै महाव्रतमन्नाद्य एवैतत्प्रतिष्ठायोदृचमश्नुवते ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३५४