द्विमास्यं वा एतत्सत्रम् ।
तेन यर्द्धिस्सैवर्द्धिः ।
यौ ह खलु वै द्वौ मासावृतोस्सर्द्धिः ।
ऋतुरु प्रत्यक्षं संवत्सरस्यर्द्धिः ।
संवत्सरं वा एतदीर्त्सन्ति संवत्सरमीप्सन्ति यद्यजन्ते यत्सत्रमासते ।
न हि किं चन बहिस्संवत्सरादस्ति ।
स्वाराज्यं वा एता रात्रयो यत्पञ्चविंशतिर्द्वादश परस्तादहानि द्वादशावस्तात् ।
अथ यन्मध्ये अहस्स स्वराट्स स्वर्गो लोकः ।
तद्ब्रध्नस्य विष्टपं गच्छन्ति तत्स्वाराज्यं गच्छन्ति ।
तदन्यस्याननुयाना भवन्ति ।
ता वा एता रात्रयस्सम्पद्यन्ते जगतीमेव ।
पशवो वै जगती ।
तेनैतत्सत्रं पशव्यम् ।
उपो विराजं गच्छन्ति ।
तदु विराजोऽन्नाद्यस्यैश्वर्यमाधिपत्यं गच्छन्ति ।
एकोना विराडूनं तत्स्त्रियै यतस्सा प्रजायते तेनो प्रजननम् ।
गायत्रीमु दीक्षोपसद्भिश्च सुत्याभिश्च सम्पद्यन्ते ।
प्राणो वै गायत्री तेनैनत्सत्रमायुष्यम् ।
तेजो वै गायत्री तत्तेजस्विनो ब्रह्मवर्चसिनो भवन्ति ।
ज्यैष्ट्यं वै गायत्री तद्वभ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठन्ति ३५३