३५२

अथ ह स्माहाषाढस्सावयसो यादोवश्यं यस्मिन्नेव मे संवत्सरे समाना दास्युदकं चौदनं चाहरत्तस्मिन्नेव मे संवत्सरे चतुर्विंशतिः परिष्कन्दा निष्कग्रीवाः परिवेषणमन्वायन् ।

नो तान्सम्पश्यामो येऽनिष्का आसन्निति ।

तावत्तेजस्विनीस्तावद्ब्रह्मवर्चसिनीस्तावद्वीर्यावतीरेता रात्रयः ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एता रात्रीरुपयन्तीति ।

तद्यत्परस्ताद्प्रत्यञ्चः पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।

त्रिवृतोऽध्यह्न उत्तिष्ठन्ति ।

ब्रह्म वै त्रिवृत् ।

ब्रह्मण्येवैतत्प्रतिष्ठायोदृचमश्नुवते ।

त्रिवृत्त्रिवृतोऽनुचरो भवति ।

तस्माद्ब्राह्मणो ब्राह्मणस्यानुचरो भवति ।

विन्दतेऽनुचरितॄन्बहवोऽस्यानुचरा भवन्ति य एता रात्रीरुपैति ।

न ह खलु वा एषा क्षमा रमते यद्गायत्री ।

ऊर्ध्वा ह वा एषा सह यजमानेन स्वर्गं लोकमेति ।

ऊर्ध्वा हैवास्य कीर्तिरूर्ध्वा श्रीरूर्ध स्वर्गं लोकमेति य एवं वेद ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३५२