३५१

इत्यप्रजानंस्तिष्ठेदेवमेवैतन्मृत्योः पदयोपनं कृतं भवति पाप्मनोऽनन्ववायाय ।

न ह वा एनं पुनर्मृत्युरन्वेत्यप पाप्मानं हते गच्छति स्वर्गं लोकम् ।

ते परमन्तमित्वा पुनरेवाबिभयुः ।

तानेतेनैवानिरुक्तेन त्रयस्त्रिंशेनात्यनयन्निरुक्तेन निरब्रवीत् ।

ततो वै ते तं मृत्युमपाजयन्य स्वर्गे लोके ।

अप ह वै तं मृत्युं जयति य स्वर्गे लोके य एवं वेद ।

संवत्सरो वा एता रात्रयस्संवत्सरस्य गर्भः ।

संवत्सरस्य वै गर्भं प्रजाः पशव उपजीवन्ति ।

गर्भिणीरु एता रात्रयः ।

यथा वा अजगरो गीर्णवानेवमेता रात्रयः ।

यद्यु वा अजगरो गीर्णवान्भवत्युभावन्तावणू स्थूलं मध्यम् ।

सुहित्यस्यो वा एता रूपं रात्रयः ।

सुहित्यं वै सोऽश्नुते य श्रियमश्नुते ।

सुहित्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियमश्नवामहा इति तस्मादेता रात्रीरुपयन्ति ३५१