३४९

अथैतास्संसदो भवन्ति ।

एतद्ध वै संसदां संसत्त्वं यदेते स्तोमाश्च छन्दांसि च मध्यतः संसन्नाः ।

स्तोमाश्च ह खलु वै छन्दांसि च सर्वा देवताः ।

देवा वै मृत्योरबिभयुर्य स्वर्गे लोके ।

तस्मात्ते प्रजापतिमेवोपाधावन् ।

तान्प्रजापतिरब्रवीन्मा बिभीत ।

अहं वस्तं मृत्युमतिनेष्यामि य स्वर्गे लोक इति ।

तान्पृष्ठ्ये षडहे समसादयत् ।

ऋतवो वै पृष्ठानि ।

संवत्सर ऋतवः ।

संवत्सरो मृत्युः ।

मृत्योर्वावैनांस्तत्पृष्ठे प्रतिष्ठितस्समसादयत् ।

तानेतेनानिरुक्तेन त्रयस्त्रिंशेनात्यनयत् ।

स षक्षत मानिरुक्ता भूवन्निति ।

तान्निरुक्तेन निरब्रवीत् ।

ते स्तोमांश्च छन्दांसि चाक्रममाणा आयन् ।

मृत्योर्वाव ते तत्पदयोपनं कुर्वन्त ईयुस्तद्यदेते स्तोमाश्च छन्दांसि च मध्यतो विष्वञ्चो भवन्ति ३५०