अथ यस्यैतस्य सर्वमेव चतुस्त्रिंशमहर्भवति सर्वेणैवाह्ना स्वाराज्यं लोकमृध्नवामेति ।
त्रयाणामु चैव त्रयस्त्रिंशानामननूचीनतायै ।
अथ ह स्माह भाल्लबेयो न पुरा संवत्सरान्महाव्रतमुपेत्यम् ।
उपो चेदियुश्चतुर्विंशत्यामेवैनद्रा त्रीषूपेयुरिति ।
संवत्सरो वा एता रात्रयो यच्चतुर्विंशतिः ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सर एवैष उभयतः पर्यूढः ।
तस्य यन्मध्ये सप्तदशमहस्तस्मिन्नेवोपेत्यमिति ।
सप्तदशो वै प्रजापतिः ।
प्राजापत्यं महाव्रतम् ।
मध्यायतनो वै प्रजापतिर्देवतानाम् ।
तद्यत्रायतनः प्रजापतिर्देवतानां तत्प्रजापतिमृध्नवामेति ।
मध्यतो वा अन्नमशितं धिनोति ।
तद्यदेवमुपयन्ति मध्यत एवैतदशनयामपहत्योत्तिष्ठन्ति ।
तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एता रात्रीरुपयन्तीति ।
तद्यत्परस्ताद्प्रत्यञ्चः पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।
ज्योतिषोऽध्यह्न उत्तिष्ठन्त्युक्तब्राह्मणात् ।
यदिति ह खलु वा एतच्छन्दो यद्गायत्री ।
यद्गायत्र्या अध्युत्तिष्ठेयुरीश्वरा अप्रतिष्ठिताश्चरितोः ।
सविता यन्त्रैः पृथिवीमरम्णादिति सावित्रं वैश्वदेवे होतारमनुशंस्तवै ब्रूयात् ।
तदु दृढात्प्रतिष्ठितादुत्तिष्ठन्ति ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३४९