३४७

अथैते पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति ।

श्रीर्वै पृष्ठानि वर्ष्म वै पृष्ठानि ।

तच्छ्रियं वर्ष्म पृष्ठानि रोहन्ति ।

तदु सत्रिणो भवन्ति ।

अथैतत्त्रयस्त्रिंशमहर्भवति ।

त्रयस्त्रिंशादेवाधि त्रयस्त्रिंशम् ।

स ह्यन्तः ।

कुतो ह्यन्यदाहरेयुः ।

तस्य चतुस्त्रिंशं बहिष्पवमानं भवति ।

त्रयस्त्रिंशद्वै देवताः ।

प्रजापतिश्चतुस्त्रिंशः ।

षष्ठायतनो वै प्रजापतिर्देवतानाम् ।

अथ यत्सप्तममह स्वाराज्यस्स लोकः ।

स्वाराज्यमु चतुस्त्रिंशी ।

तद्यत्सप्तमस्याह्नश्चतुस्त्रिंशं बहिष्पवमानं भवति तद्यावान्स्वाराज्यो लोकस्तावन्तं स्वाराज्यं लोकमृध्नवामेति ।

त्रयाणामु चैव त्रयस्त्रिंशानामननूचीनतायै ।

प्रोष्ठस्य ह खलु वा एता रूपं रात्रयः ।

ऊर्ध्वो वा अयमितष्षडहस्तिर्यङ्मध्येऽर्वाङसावमुतः ।

उपरिषद्यस्यो वा एता रूपं रात्रयः ।

उपरिषद्यं वै सोऽश्नुते य श्रियमश्नुते ।

उपरिषद्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियमश्नवामहा इति ।

तस्मादेता रात्रीरुपयन्ति ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एता रात्रीरुपयन्तीति ।

तद्यत्परस्ताद्प्रत्यञ्चः पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।

ज्योतिषोऽध्यह्न उत्तिष्ठन्त्युक्तब्राह्मणात् ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३४८