अथैते सप्ताहा भवन्ति सप्त वै छन्दांसि ।
छन्दांसि वै स्वाराज्यो लोकस्तद्यावान्स्वाराज्यो लोकस्तावन्तं स्वाराज्यं लोकमृध्नवामेति ।
सप्त वै प्राणाः ।
प्राणैर्वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते ।
तद्यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते तैर्नः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठान्ता इति ।
प्राणैर्वै देवा स्वर्गं लोकमायन् ।
तद्यैः प्राणैर्देवा स्वर्गं लोकमायंस्तैः प्राणै स्वर्गं लोकमायामेति ।
सप्त वै मुख्याः प्राणाः ।
एते वा अपहतपाप्मानः प्राणा यन्मुख्याः ।
ते येऽपहतपाप्मानः प्राणास्तेषां मात्रया यज्ञं तनवामहा इति ।
अग्निष्टोमा भूयांस उक्थ्येभ्यो भवन्ति ।
ब्रह्म वा अग्निष्टोमः ।
तद्ब्रह्मवर्चसमृध्नुवन्ति ।
तदु ब्रह्मवर्चसिनो भवन्ति ।
अग्निष्टोमाः परस्ताद्भवन्त्यग्निष्टोमा अवस्तादुक्थ्या मध्ये ।
ब्रह्म वा अग्निष्टोमः पशव उक्थ्यानि ।
ब्रह्मणैव तदुभयतः पशून्परिगृह्णन्त्यपरावापाय नास्य वित्तं परोप्यते य एवं वेद ।
वैश्वानरः प्रायणीयोऽतिरात्रो भवति ।
वैश्वानरप्रायणा ह्यहीनास्सोमाः ३४७