३४४

अथैतत्पञ्चाहविधं भवति ।

न ह खलु वै स एकविंशतिरात्रो यो विषुवान् ।

को नु स विषुवान्यस्मिन्न विश्वजिअभिजितौ भवतः ।

तद्यद्विश्वजिदभिजितौ भवतः कृत्स्नं विषुवन्तमृध्नवाम कृत्स्नो नो विषुवानुपेतोऽसदिति ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एता रात्रीरुपयन्तीति ।

तद्यत्परस्ताद्प्रत्यङ्पञ्चाहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३४५