अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य यन्मध्ये सप्तदशमहस्तदुपरिष्टात्त्रयस्त्रिंशस्य पर्यूहन्ति ।
प्रजननकामा हैतदुपेयुः ।
प्रजननं वै पृष्ठ्यष्षडहः ।
षडुत्तरेण वै स्तोमाः प्रजनयन्ति चतुरुत्तरेण छन्दांसि ।
अथैष षडुत्तरै स्तोमैस्स्तोमस्सप्तदशो मध्ये व्यवहितः ।
प्रजननमन्तर्धायेव तिष्ठति ।
तं यदुपरिष्टात्त्रयस्त्रिंशस्य पर्यूहन्त्यनन्तर्हितात्प्रजननात्प्रजायामहा इति ।
द्वयोरु वै सप्तदशयोस्तृतीयतायै ।
अथैतौ विश्वजिदभिजितावभित स्तोमानां वीर्यम् ।
वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः ।
यज्ञस्य ह खलु वा मेथ्यौ यद्विश्वजिदभिजितौ ।
एताभ्यां वै यज्ञो धृतः ।
देवतल्पो ह खलु वा एष यद्विश्वजिदभिजितौ क्षत्रमसावादित्यः ।
देवतल्प एव तत्क्षत्रमध्यूहन्ति ।
तस्मात्क्षत्रियो विश्यध्यूढः ।
अथैष एकविंशो विषुवान्भवति ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एतस्य वा एते सलोकतां गच्छन्त्येतमभ्यारोहन्ति ।
तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं आदित्यमिति ।
तद्यत्परस्ताद्प्रत्यङ्ङेवंविधष्षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३४४