अथैष पृष्ठ्यष्षडहो भवति ।
श्रीर्वै पृष्ठानि वर्ष्म वै पृष्ठानि ।
तच्छ्रियं वर्ष्म पृष्ठानि रोहन्ति ।
तदु सत्रिणो भवन्ति ।
अथैते सप्तदशा स्वरसामानो भवन्ति प्राजापत्यान्यहानि त्रयः परस्तात्त्रयोऽवस्तात् ।
प्रजापतिर्वा एष द्वेधा व्यूढ आदित्याय रुचं प्रयच्छति ।
तद्यो रुचः प्रदाता येन रुक्प्रत्ता स नो रुचं प्रयच्छादिति ।
अथैष एकविंशो विषुवान्भवति ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एतस्य वा एते सलोकतां गच्छन्त्येतमभ्यारोहन्ति ।
तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं आदित्यमिति ।
तद्यत्परस्ताद्प्रत्यङ्पृष्ठ्यष्षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३४३