द्विमास्यं वा एतत्सत्रम् ।
तेन यर्द्धिस्सैवर्द्धिः ।
यौ ह खलु वै द्वौ मासावृतोस्सर्द्धिः ।
ऋतुरु प्रत्यक्षं संवत्सरस्यर्द्धिः ।
संवत्सरं वा एतदीर्त्सन्ति संवत्सरमीप्सन्ति यद्यजन्ते यत्सत्रमासते ।
न हि किं चन बहिस्संवत्सरादस्ति ।
स्वाराज्यं वा एता रात्रयो यदेकविंशतिर्दश परस्तादहानि दशावस्तात् ।
अथ यन्मध्येऽहस्स स्वराट्स स्वर्गो लोकः ।
तद्ब्रध्नस्य विष्टपं गच्छन्ति तत्स्वाराज्यं गच्छन्ति ।
तदन्यस्याननुयाना भवन्ति ।
ता वा एता रात्रयस्सम्पद्यन्ते विराजमेव ।
तदु विराजोऽन्नाद्यस्यैश्वर्यमाधिपत्यं गच्छन्ति ।
पञ्च च विराट्च ।
ता याः पञ्च दैवीराच्छदस्तासामेषर्द्धिः ।
यः पाङ्क्तो यज्ञो ये पाङ्क्ताः पशवो यत्पाङ्क्तमन्नाद्यं ये पञ्चर्तवो यत्किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।
दशैतानि परस्तादहानि भवन्ति दशावस्ताद्विषुवानेकविंशः ।
दश वै पुरुषस्य हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशः ।
पुरुषो ह वा एष विराज्यध्यूढोऽनिष्पादाय ।
न ह वै गौर्नाश्वो नाश्वतरो विराजमधितिष्ठति ।
पुरुषो ह वाव विराजमधितिष्ठति ।
तस्मात्पुरुषः पशूनामत्ता ।
अत्ता पशूनां भवत्यधि विराजं तिष्ठति य एवं वेद ।
ता हैता रात्रीर्नैदाघीये मास्युपेयुः ।
नैदाघीये वै मासि प्रजापतिरादित्याय रुचं प्रायच्छत् ।
तस्मादेष नैदाघीये मासि बलिष्ठं तपत्यपि द्विगुणाश्छाया उपसर्पन्ति ।
ता हाग्रदेवो राजनिर्ब्रह्मवर्चसकाम उपेयाय ।
तमु ह ब्राह्मण उवाच यावद्ब्रह्मवर्चसमवारुद्धाभिश्वेतो भविष्यतीति ।
स यथाश्व श्वेत एवमास ।
तावत्तेजस्विनीस्तावद्ब्रह्मवर्चसिनीस्तावद्वीर्यवतीरेता रात्रयः ।
ते य एवं विद्वांस एता रात्रीरुपयन्ति सर्व एवर्ध्नुवते सर्वे ब्रह्मवर्चसिनो भवन्ति ।
तासु वायव्यं पशुमालभेरन्वायुर्वै शान्तिश्शान्त्या एवानिर्दाहाय ।
वैश्वानरः प्रायणीयोऽतिरात्रो भवति ।
वैश्वानरप्रायणा ह्यहीनास्सोमाः ३४२