३४०

अथैते ज्योतिर्गौरायुरिति स्तोमा भवन्ति ।

एते ह वै शिवाश्शान्ताः पथ्या स्तोमा ये ज्योतिर्गौरायुरिति ।

ते ये शिवाश्शान्ताः पथ्या स्तोमास्तैर्न स्तुतमसदिति ।

त उ विराजं सम्पन्नाः ।

तदु विराजमन्नाद्यमारभन्ते ।

यो वै श्रेयांसमसंविद्योपाधिरोहत्युद्वै स तं हिंस्ते । यया वै स तमार्त्या कामयते तयैनं निनयति ।

अथ य एनमनु संविदमनुसमासाद्योपाधिरोहति न वै स तमुद्धिंस्ते ।

तद्यदेते ज्योतिर्गौरायुरिति स्तोमा भवन्ति यथा श्रेयांसमनु संविदमनुसमासाद्योपाधिरोहेत्तादृक्तत् ।

अथैष त्रिवृदग्निष्टुदग्निष्टोमो भवति ।

ब्रह्म वै त्रिवृत् ।

क्षत्रं पृष्ठ्यष्षडहः ।

तद्यत्पुरस्तात्पृष्ठ्यस्य षडहस्याग्निष्टुतमुपयन्ति ब्रह्मैव तत्क्षत्रस्य पुरस्ताद्दधाति ।

तस्माद्ब्राह्मणः क्षत्रियस्य पुरोहितः ।

एकेनो च सत्रेण द्वे सत्रे उपयन्ति द्वादशाहं च पञ्चदशरात्रं च ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३४०