३३९

मास्यं वा एतत्सत्रम् ।

तेन यर्द्धिस्सैवर्द्धिः ।

मासो ह खलु वै पुनःपुनः पल्ययमानस्संवत्सरमाप्नोति ।

संवत्सरं वा एतदीर्त्सन्ति संवत्सरमीप्सन्ति यद्यजन्ते यत्सत्रमासते ।

न हि किं चन बहिस्संवत्सरादस्ति ।

स्वाराज्यं वा एता रात्रयो यत्पञ्चदश ।

सप्त परस्तादहानि सप्तावस्तात् ।

अथ यन्मध्येऽहस्स स्वराट्स स्वर्गो लोकः ।

तद्ब्रध्नस्य विष्टपं गच्छन्ति तत्स्वाराज्यं गच्छन्ति ।

तदन्यस्याननुयाना भवन्ति ।

वज्रो ह खलु वा एष यत्पञ्चदशरात्रः ।

पञ्चदशरात्रेण वै वज्रेण देवा असुरानभ्यभवन् ।

ते ये पाप्मगृहीता इव मन्येरंस्त एतमेव पञ्चदशरात्रमुपेयुः ।

पञ्चदशरात्रेणैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यमभिभूयोत्तिष्ठन्ति ।

तदु होवाच यामनो भ्रातलायनो यामहं सरस्वतीं पञ्चदशरात्रेण वज्रेणाजयं कस्तस्यामुदन्योऽवसातुमर्हति ।

वज्रेण वा अहमेतामजयम् ।

दुरपजय्यं वै वज्रजितमिति ।

ता वा एता रात्रयस्सम्पद्यन्ते विराजं च गायत्रीं च ।

एते ह खलु वै छन्दसां वीर्यवत्तमे यद्विराट्च गायत्री च ।

ते ये छन्दसां वीर्यवत्तमे तयोरृध्नवाम तयोः प्रतितिष्ठाम ताभ्यां न स्तुतमसदिति ।

उपो विराजं गच्छन्ति ।

तदु विराजोऽन्नाद्यस्यैश्वर्यमाधिपत्यं गच्छन्ति ।

एकोना विराडूनं तत्स्त्रियै यतस्सा प्रजायते तेनो प्रजननम् ।

वैश्वानरः प्रायणीयोऽतिरात्रो भवति ।

वैश्वानरप्रायणा ह्यहीनास्सोमाः ३३९