अथैता द्वादशाहवतीर्भवन्ति देवसत्रं ह खलु वा एतत्प्रजापतिसत्रं यद्द्वादशाहः ।
एतेन वै सत्रेण प्रजापतिरार्ध्नोत्तद्येन सत्रेण प्रजापतिरार्ध्नोत्तेनर्ध्नवामेति ।
तदाहुः किं वर्ष्म सत्राणामिति ।
द्वादशाह इति ब्रूयात् ।
द्वादशाहो ह वै वर्ष्म सत्राणां न ह्यन्यस्मिन्सत्रे चतुश्चत्वारिंश स्तोमोऽस्ति नाष्टाचत्वारिंशः ।
तद्यद्वर्ष्म सत्राणां तन्न उपेतमसदिति ।
इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रमासते ।
तां दशमेनैवाह्ना सम्पादयन्ति ।
सम्पन्नायै नो वाचोऽविकृष्टायै प्रतिष्ठिताया उदृचमश्नवामहा इति ।
एकेनो च सत्रेण द्वे सत्रे उपयन्ति द्वादशाहं च चतुर्दशरात्रं च ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३३८