अथैष पृष्ठ्यष्षडहो भवति ।
श्रीर्वै पृष्ठानि वर्ष्म वै पृष्ठानि ।
तच्छ्रियं वर्ष्म पृष्ठानि रोहन्ति ।
तदु सत्रिणो भवन्ति ।
तदाहुरग्रमिव वा एते रोहन्ति य एतं पृष्ठ्यं षडहमुपयन्तीति ।
यो वै महावृक्षस्याग्रं रूढ्वा प्रत्यवरोढुं न वेद भङ्गं वै स न्येत्यव वा हि पद्यते तद्वै वोपरि शुष्यति ।
तद्यत्परस्तात्प्रत्यङ्त्र् यहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।
ज्योतिषोऽध्यह्न उत्तिष्ठन्ति प्रज्ञाताज्ज्यैष्ठ्यात्स्तोमात् ।
प्रज्ञाते ज्यैष्ठ्ये स्तोमे प्रतिष्ठायोदृचमश्नवामहा इति ।
तस्य द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरः ।
संवत्सरो ज्यैष्ठ्यं तस्य भ्रातृव्यो नास्त्यभ्रातृव्ये ज्यैष्ठ्ये स्तोमे प्रतिष्ठायोदृचमश्नवामहा इति ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३३७