३३६

अथैष पृष्ठ्यष्षडहो भवति ।

श्रीर्वै पृष्ठानि वर्ष्म वै पृष्ठानि ।

तच्छ्रियं वर्ष्म पृष्ठानि रोहन्ति ।

तदु सत्रिणो भवन्ति ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति य एतं पृष्ठ्यं षडहमुपयन्तीति ।

तद्यत्परस्ताद्प्रत्यङ्पृष्ठ्यष्षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै ।

तत्त्वेतस्य परिचक्षते यदारभमाणा एवं पृष्ठ्यं षडहमारभन्ते ।

वैश्वानर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ।

अथैते ज्योतिर्गौरायुरिति स्तोमा भवन्ति ।

एते ह वै शिवाश्शान्ताः पथ्या स्तोमा ये ज्योतिर्गौरायुरिति ।

ते ये शिवाश्शान्ताः पथ्या स्तोमास्तैर्न स्तुतमसदिति । उ विराजं सम्पन्नाः ।

तदु विराजमन्नाद्यमारभन्ते ।

यो वै श्रेयांसमसंविद्योपाधिरोहत्युद्वै स तं हिंस्ते ।

यया वै स तमार्त्या कामयते तयैनं निनयति ।

अथ य एनमनु संविदमनुसमासाद्योपाधिरोहति न वै स तमुद्धिंस्ते ।

तद्यदेते ज्योतिर्गौरायुरिति स्तोमा भवन्ति यथा श्रेयांसमनु संविदमनुसमासाद्योपाधिरोहेत्तादृक्तत् ३३६