सत्रम्
अथैष त्रयोदशरात्रः ।
असौ वा आदित्यस्सदृङ्ङेवान्यैर्देवैरासीदनेनाग्निना वायुना चन्द्र मसान्यैर्देवैः ।
सऽकामयत सर्वेषां देवानां श्रैष्ठ्यं गच्छेयं त्रयोदशो मासो भूत्वेदं सर्वमभ्यारोहेयमिति ।
स एतं त्रयोदशरात्रमपश्यत् ।
तमुपैत् ।
ततो वै स सर्वेषां देवानां श्रैष्ठ्यमगच्छत् ।
त्रयोदशो मासो भूत्वेदं सर्वमभ्यारोहत् ।
संवत्सरो वा इदं सर्वम् ।
त एव सर्वे स्तोमास्तानि सर्वाणि पृष्ठानि तानि सर्वाणि छन्दांसि तानि सर्वाणि सवनानि ते सर्वे देवास्ते सर्वे लोकास्ते सर्वे कामाः ।
स द्वादशभिरेवाहोभिर्द्वादश मासानाप्त्वा त्रयोदशेनैवाह्ना त्रयोदशो मासो भूत्वेदं सर्वमभ्यारोहत् ।
ते य एवं विद्वांसस्त्रयोदशरात्रमुपयन्त्येतमेवर्ध्नुवन्त्येतस्य सलोकतां गच्छन्ति ३३४