३३३

\तस्य त्रिवृदग्निष्टोमः पुरस्ताद्भवति त्रिवृदग्निष्टोम उपरिष्टादष्टावुक्थ्याः सप्तदशा मध्ये ।

अन्नाद्यकामो हैतेन यजेत ।

अग्निर्वै पूर्वस्त्रिवृदादित्य उत्तरः ।

अग्निर्वा अस्य लोकस्याभ्रिरादित्योऽमुष्य ।

अथैतदन्नमेव यजेत ।

अष्टावुक्थ्यास्सप्तदशा मध्ये ।

अयमेवास्मा अग्निरित एतदन्नाद्यं रदत्यादित्योऽमुतो वृष्टिं प्रयच्छति ।

ता अस्मा एतदुभयतोऽन्नाद्यं रदतोऽन्नादो ह भवति य एवं वेद ।

अथो आहुः पशुकाम एवैनेन यजेतेति ।

तस्याग्निष्टोमावभितो भवत उक्थ्या मध्ये ।

ब्रह्म वा अग्निष्टोमः पशव उक्थानि ।

ब्रह्मणैव तदुभयतः पशून्परिगृह्णीतेऽपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ।

अथ यस्यैतस्योर्ध्वष्षडह ऊर्ध्वस्त्र्यहो ज्योतिरतिरात्र स्वर्गकामो हैतेन यजेत ।

ऊर्ध्वा एते स्तोमा भवन्त्यूर्ध्वो वै स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

अथ यस्यैतस्य ज्योतिर्गौरायुरतिरात्रो ज्योतिर्गौरायुरतिरात्रो ज्योतिरतिरात्रो यः कामयेत ज्योतिष्मतो लोकाञ्जयेयमिति स एतेन यजेत ।

चत्वार्यु ह वै देवानामाविष्टमानीव ज्योतींष्यग्निः पृथिव्यामादित्यो दिवि चन्द्र मा नक्षत्रेषु विद्युदप्सु ।

एतानेव ज्योतिष्मतो लोकाञ्जयति य एवं विद्वानेतेन यज्ञक्रतुना यजते य उ चैनमेवं वेद य उ चैनमेवं वेद ३३३