३३२

अथैष कुसुर्विन्ददशरात्रः ।

तस्य त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदशा उक्थ्यास्त्रयस्सप्तदशा उक्थ्या ज्योतिरतिरात्रो यः कामयेत तेजस्वी ब्रह्मवर्चस्योजस्वी वीर्यावानन्नादः प्रतितिष्ठेयमिति स एतेन यजेत ।

तेजो वै ब्रह्मवर्चसं त्रिवृत्स्तोम ओजो वीर्यं पञ्चदशोऽन्नं सप्तदशः प्रतिष्ठा ज्योतिरतिरात्र ऋध्नोति हैनेनैतान्कामान्य एतस्मिन्कामाः ।

अतो ज्योतिष्टोमेऽतिरात्रे श्रुतस्तं काममृध्नवानि यो दशरात्र इति ।

एतं ह स्म वै तत्प्रसृप्तौ ब्राह्मणौ समूदाते कं नु सोम्य यज्ञक्रतुं प्रसृप्तौ स्व इति ।

तयोर्हान्यतर उवाच यदि न्वा इदमेवाप्यह श्वो भविताग्निष्टोमा एव तर्हि दशो एव त्वयि नूनमहान्यासिष्यावहा इति ।

तं हैतं तावग्निष्टोममेव मेनाते ये ह्येवामी अग्निष्टिमस्य स्तोमास्त एवैते अथैषोऽभ्रिरुभयतःक्ष्णूः ३३२