अथेतरे विश्वजितमेव सर्वपृष्ठं पितरं प्रजापतिं प्रापद्यन्त ।
ततो वै ते निकृत्य मृत्युममृता अभवन् ।
निकृत्य हैव मृत्युममृतो भवति य एवं वेद ।
अथैतेऽग्निष्टोमा एव दशाहानि भवन्ति ।
एतेभ्यो ह वै सामभ्यः प्रजापतिस्सोमपीथं प्रददौ ।
तानि वा एतानि प्रत्तसोमपीथान्यपहतपाप्मानि सामानि ।
अपहत्य पाप्मानं श्रेयान्भवति य एवं वेद ।
एतान्यु ह वै सामानि कामानां पूर्णानि ।
यथा दृति स्वासिक्त स्याद्दध्नो वा घृतस्य वा मधुनो वैवमेतानि सामानि कामानां पूर्णानि ।
एतान्यु ह स्म वै तत्कुंस्थः कालाशभिरुपगायति
अरुणान्सदमुक्षन्नश्वान्काष्ठातो यथा
पूर्णान्परिस्रुतः कुम्भाञ्जनमेजयसादन
इति ।
यं ह वा एतैस्सामभिः कामं कामयते तमेवावरुन्द्धे ।
अथैतानि द्वादशाहस्य दशाहानि भवन्ति ।
एतान्यु ह वै वीर्यवन्त्यहानि यानि द्वादशाहस्य ।
तद्यानि वीर्यवन्त्यहानि तैर्न स्तुतमसदिति ।
तान्यु नाना स्तोमा वहन्ति ।
एषा ह वा अह्नां समृद्धिर्यदेनानि नाना स्तोमा वहन्ति ।
सा याइवाह्नां समृद्धिस्सैवैषा क्रियते ३३१