ते त्रिवृतास्तुवत ।
त्रिवृत वै स्तुवत इति मृत्युः पञ्चदशमभिपर्येत्यातिष्ठदिदमत एष्यन्तीति ।
तं पञ्चदशेऽन्वागच्छन् ।
तं तत उदरुन्धन् ।
स सप्तदशमभ्युदक्रामत् ।
अथेतरे पञ्चदशेन स्तुत्वा त्रिवृतैव पुनरस्तुवत ।
त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशमेवाभिप्रत्याद्र वदिदमेवात एष्यन्तीति ।
अथेतरे सप्तदशमभ्यत्यक्रामन् ।
ते सप्तदशेनास्तुवत ।
सप्तदशेन वै स्तुवत इति मृत्युरेकविंशमभिपर्येत्यातिष्ठदिदमत एष्यन्तीति ।
तमेकविंशेऽन्वागच्छन् ।
तं तत उदरुन्धन् ।
स त्रिणवमभ्युदक्रामत् ।
अथेतर एकविंशेन स्तुत्वा सप्तदशेनैव पुनरस्तुवत ।
सप्तदशेन वै स्तुवत इति मृत्युरेकविंशमेवाभिप्रत्याद्र वदिदमेवात एष्यन्तीति ।
अथेतरे त्रिणवमभ्यत्यक्रामन् ।
ते त्रिणवेनास्तुवत ।
त्रिणवेन वै स्तुवत इति मृत्युस्त्रयस्त्रिंशमभिपर्येत्यातिष्ठदिदमत एष्यन्तीति ।
तं त्रयस्त्रिंशेऽन्वागच्छन् ।
तं तत उदरुन्धन् ।
स छन्दोमानभ्युदक्रामत् ।
अथेतरे त्रयस्त्रिंशेन स्तुत्वा त्रिणवेनैव पुनरस्तुवत ।
त्रिणवेन वै स्तुवत इति मृत्युस्त्रयस्त्रिंशमेवाभिप्रत्याद्र वदिदमेवात एष्यन्तीति ३३०