३२९

तेन हैतेन जबालमारुणिर्याजयां चकार ।

स ह त्रयाणां निगृध्नानानां पुरोधां जगाम काश्यस्य कौसल्यस्यैक्ष्वाकस्येति ।

तस्य ह श्रीरास कल्याणी ।

तस्य ह स्म तच्छ्रियं दृष्ट्वा श्वेतकेतुः पित्रा विवदते पलित यज्ञकाम अन्यानेव श्रिया यशसा समञ्जंश्चरसि नात्मानमिति ।

नेति ह स्माह ।

मा मा पुत्रक वोचः ।

यज्ञक्रतुरेव मे विज्ञात आस ।

तं पापक इव ब्रह्मबन्धुके व्यजिज्ञासे ।

स किल तहैवास यथा म एनमनूचुः ।

ततो वा अतितरामिव ।

स वा एष यज्ञो मृत्योरेव निकृतिः ।

देवा वै मृत्योरबिभयुर्य स्वर्गे लोके ।

तस्मात्ते प्रजापतिमेवोपाधावन् ।

तेभ्य एतं दशरात्रं यज्ञं व्यदधात् ।

तमाहरन् ।

तेनायजन्त ३२९