स वा एष महात्रिककुब्भवति ।
त्रयो ह वा एषां लोकानां ककुभः ।
अग्निर्वा अस्य लोकस्य ककुब्वायुरन्तरिक्षस्यादित्यो दिवः ।
ककुभामेको भवति य एवं वेद ।
विश्वजित्सर्वपृष्ठातिरात्रो भवति ।
श्रीर्वै वर्ष्म पृष्ठानि ।
श्रियमेव तद्वर्ष्म पृष्ठान्यभ्यारोहति ।
ओजो वै वीर्यं पृष्ठानि ।
ओजसैव तद्वीर्येणन्ततः पुरोधां परिगृह्णीते ।
नानाग्निष्टोमसामानि भवन्त्यन्योऽन्यस्याननुयानाय ।
शं नो देवीरभिष्टये तं गूर्धया स्वर्णरमिति यज्ञायज्ञीयं च साकमश्वं च ।
अग्ने वाजस्य गोमतो विशोविशो वोऽतिथिमिति श्रुधीयं च विशोविशीयं च ।
आ ते अग्न इधीमहि मूर्धानं दिवो अरतिं पृथिव्या इति सञ्जयं च दैर्घश्रवसं च ।
अग्निं नरो दीधितिभिररण्योस्त्वमग्ने गृहपतिरिति बृहच्चाग्नेयं समन्तं च ।
समिद्धमग्निं समिधा गिरा गृण आ नो यज्ञं दिविस्पृशमिति राजोवाजीयं च बृहच्च ३२८