३२७

अथैष महात्रिककुप् ।

य श्रीकामः पुरोधाकाम स्यात्स एतेन यजेत ।

त्रीणि वर्ष्माणि तिस्र श्रियस्त्रय इमे लोकाः ।

तदेवैतेनावरुन्द्धे ।

त्रिवृता पञ्चदशं परिष्टुवन्ति ।

ब्रह्म वै त्रिवृत्क्षत्रं पञ्चदशः ।

ब्रह्मणैव तत्क्षत्रं परिगृह्णन्ति ।

सप्तदशेनैकविंशं परिष्टुवन्ति ।

ब्रह्म वै सप्तदशः क्षत्रमेकविंशः ।

ब्रह्मणैव तत्क्षत्रं परिगृह्णन्ति ।

त्रिणवेन त्रयस्त्रिंशं परिष्टुवन्ति ।

ब्रह्म वै त्रिणवः क्षत्रं त्रयस्त्रिंशः ।

ब्रह्मणैव तत्क्षत्रं परिगृह्णन्ति ।

यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्यथ स तस्य पुरोधां गच्छति गच्छति पुरोधां पुर एनं दधते ३२७