३२६

अथैष पञ्चयज्ञक्रतुः ।

याः पञ्च दैवीराच्छदस्तासामेषर्द्धिः ।

यः पाङ्क्तो यज्ञो ये पाङ्क्ताः पशवो यत्पाङ्क्तमन्नाद्यं ये पञ्चर्तवो यत्किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।

तस्यो एतस्य न रात्रिमुपयन्ति नेद्विराजमतिष्टवामेति ।

तदाहुरति वै दशरात्रो यज्ञस्य मात्रामेति ।

तद्यदेष पञ्चयज्ञक्रतुर्भवति पञ्चाहे श्रुतस्तं काममृध्नवानि यो दशरात्र इति ।

सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।

सर्वं हीदं स्तोमा एव ।

अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति ।

अथैष सप्तयज्ञक्रतुः ।

यास्सप्त दैवीराच्छदस्तासामेषर्द्धिः ।

यास्सप्तपदाश्शक्वर्यो ये सप्त ग्राम्याः पशवो यानि सप्त चतुरुत्तराणि छन्दांसि ये सप्त मुख्याः प्राणा यानि सप्तविंशतिर्दिव्यानि नक्षत्राणि यस्सप्तविंश स्तोमो यत्किं च सप्त सप्त तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।

तदाहुरति वै दशरात्रो यज्ञस्य मात्रामेति ।

तद्यदेष सप्तयज्ञक्रतुर्भवति सप्ताहे श्रुतस्तं काममृध्नवानि यो दशरात्र इति ।

सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।

सर्वं हीदं स्तोमा एव ।

अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति ३२६