अथैष त्रिककुप् ।
प्रजननकामो हैतेन यजेत ।
त्रिवृत्पञ्चदशौ स्तोमौ भवतः ।
ऊनातिरिक्तौ मिथुनौ प्रजनी ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
ताभ्यां त्रिवृतं स्तोमं पर्यूहन्ति ।
तमेव तौ प्रजनयतः ।
सप्तदशैकविंशौ स्तोमौ भवतः ।
ऊनातिरिक्तौ मिथुनौ प्रजनी ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
ताभ्यां सप्तदशं स्तोमं पर्यूहन्ति ।
तमेव तौ प्रजनयतः ।
त्रिणवस्त्रयस्त्रिंशौ स्तोमौ भवतः ।
ऊनातिरिक्तौ मिथुनौ प्रजनी ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
ताभ्यां त्रिणवं स्तोमं पर्यूहन्ति ।
तमेव तौ प्रजनयतः ।
तदाहुराप्यन्ते वा एतत्स्तोमा आप्यन्ते छन्दांस्याप्यन्ते देवता आप्यन्त ऋतवो गृहा यदेष पृष्ठ्यष्षडह आप्यन्त इति ।
आग्नेयीष्वयातयाम्नीषु सप्तमेऽहनि स्तुवीरन् ।
अग्निर्वै देवानामयातयामा ।
अग्निमेव तद्देवानामयातयामानं पश्यन्तो यजन्ते ।
षन्द्री ष्वयातयाम्नीष्वष्टमेऽहनि स्तुवीरन् ।
इन्द्रो वै देवानामयातयामा ।
इन्द्र मेव तद्देवानां अयातयामानं पश्यन्तो यजन्ते ।
वैश्वदेवीष्वयातयाम्नीषु नवमेऽहनि स्तुवीरन् ।
विश्वे वै देवा देवानामयातयामानः ।
विश्वानेव देवांस्तद्देवानामयातयाम्नः पश्यन्तो यजन्ते ।
सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।
सर्वं हीदं स्तोमा एव ।
अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति ३२५