इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस्स व्यस्मयत ।
स हरितो विस्मितोऽजरत् ।
स षक्षत कथं न्वहमस्य हरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छेयमिति ।
स एतं दशरात्रं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै स तस्य हरिम्णः पाप्मनो दशमीं निर्दश्यमगच्छत् ।
गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं य एवं वेद ।
तस्मादुत विद्धं वा विजातं वावतीर्णिनं वा पृच्छन्ति निर्दश्योऽभूदिति ।
तस्य ह वाव ते तद्धरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छन्ति ।
गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं य एवं वेद ३२४