एतद्ध वै परमं वाचः क्रान्तं यद्दशेति ।
एतावद्ध परमं वाक्चक्रमे ।
तद्यत्परमं वाचः क्रान्तं तत्सर्वमाप्नवानीति ।
अथो आहुरन्नाद्यकाम एवैनेन यजेतेति ।
सर्वो ह वा अन्यो विराजमतिष्टौति ।
एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते ।
दशाक्षरा विराट् ।
अन्नं विराट् ।
अह्नैव विराजमवरुन्द्धेऽह्ना विराजमह्ना विराजं स दशमेनैवाह्ना सर्वां विराजमन्नाद्यमवरुद्ध्यान्तत उत्तिष्ठति ।
पुरुषो ह वाव विराजमतिशये ।
दशैतान्यहानि भवन्ति रात्रिरेकादशी ।
दश पुरुषे प्राणा आत्मैकादशः ।
पुरुषो ह वा एष विराज्यध्यूढोऽनिष्पादाय ।
न ह वै गौर्नाश्वो नाश्वतरो विराजमधितिष्ठति ।
पुरुषो ह वाव विराजमधितिष्ठति ।
तस्मात्पुरुषः पशूनामत्ता ।
अत्ता पशूनां भवत्यधि विराजं तिष्ठति य एवं वेद ३२३