अथैते दशरात्राः ।
अभिचर्यमाणो हैतेन यजेत यद्दशरात्रः ।
दशैतान्यहानि भवन्ति ।
दश पुरुषे प्राणाः ।
अह्नैव प्राणं परिगृह्णीतेऽह्ना प्राणमह्ना प्राणं न ततस्तस्य स प्राणोऽतिशये यमस्याभिचरंस्स्तृण्वीत ।
अथो आहुरभिचरन्नेवैनेन यजेतेति ।
दशैतान्यहानि भवन्ति ।
दश पुरुषे प्राणाः ।
अह्नैव परस्य प्राणं स्तृणुतेऽह्ना प्राणमह्ना प्राणम् ।
न ततः परस्य स प्राणः परिशिष्यते येनाभिचर्यमाणो जीवेत् ।
एतद्ध वै ज्यैष्ठ्यं कर्मणां यदेष सौम्योऽध्वरो दशरात्रो विधया विधीयते ।
तद्यज्ज्यैष्ठ्यं कर्मणां तेन नो यज्ञो विहितोऽसदिति ३२२