३२१

अथैष विवधः ।

तस्य ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोम आयुरतिरात्रो ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमः ।

पशुकामो हैतेन यजेत ।

तस्यैषोऽन्यतस्सङ्गो गोआयुषी उक्थ्यावन्तरौ भवतः ।

पशवो वा उक्थानि ।

तयोः पञ्च शतानि स्तोत्र्याः ।

ज्योतिषी अग्निष्टोमावभितो भवतः ।

ब्रह्म वै ज्योतिरग्निष्टोमः ।

ब्रह्मणैव तदुभयतः पशून्परिगृह्णीतेऽपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ।

आयुरतिरात्रो मध्ये भवति ।

तद्यथा ह वै विवधस्तस्य मध्ये पृथ्विवानवमर्दाय तादृक्तद् ।

तस्यैषोऽन्यतस्सङ्गो गोआयुषी उक्थ्यावन्तरौ भवतः ।

पशवो वा उक्थानि ।

तयोः पञ्च शतानि स्तोत्रियाः ।

ज्योतिषी अग्निष्टोमावभितो भवतः ।

ब्रह्म वै ज्योतिरग्निष्टोमः ।

ब्रह्मणैव तदुभयतः पशून्परिगृह्णीतेऽपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ३२१