अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर्गौरायुरिति मध्ये त्र्यहो भवति प्रजननकामो हैतेन यजेत ।
आत्मा वै पृष्ठ्यष्षडहः ।
प्रजननमेते स्तोमाः ।
तद्यन्मध्ये ज्योतिर्गौरायुरिति त्र्यहो भवति मध्यत एवैतदात्मनः प्रजननं धत्ते बहुर्भवति प्रजायते ।
अथ यस्यैतस्योर्ध्वष्षडहः प्रत्यङ्त्र् यहो यः कामयेत गच्छेयं स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठेयमिति स एतेन यजेत ।
षडहेनैवेत ऊर्ध्व स्वर्गं लोकं गच्छति प्रत्येवामुतस्त्र्यहेणावरोहति ।
गच्छति स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठति ।
अथो ह वेद योऽसावासं सोऽयमस्मीति पुनर्हैवास्मिल्ँ लोक आजायते ।
अथ यस्यैतस्योर्ध्वस्त्र्यहः प्रत्यङ्षडहो य उ एव कामयेत गच्छेयं स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठेयमिति स एतेन यजेत ।
त्र्यहेणैवेत ऊर्ध्व स्वर्गं लोकं गच्छति प्रत्येवामुतष्षडहेनावरोहति ।
गच्छति स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठति ।
अथो ह वेद योऽसावासं सोऽयमस्मीति पुनर्हैवास्मिल्ँ लोक आजायते ।
अथ यस्यैतस्योर्ध्वष्षडह ऊर्ध्वस्त्र्यह स्वर्गकामो हैतेन यजेत ।
ऊर्ध्वा एते स्तोमा भवन्त्यूर्ध्वो वै स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ३२०