३१९

तद्वेतस्य परिचक्षते यदेनत्सत्रमेव मन्यन्ते सत्रं ह स्मैतत्पुरोपयन्ति ।

अनेन ह त्वाव सत्रियाश्च दक्षिणावन्तश्च स्तोमा विज्ञायन्ते ।

उभयतोऽतिरात्रा एव सत्रिया अन्यतरतोऽतिरात्रा दक्षिणावन्तः ।

स य एनेन दक्षिणावता यजेत पुरस्तादग्निष्टोमं कृत्वा यजेत ।

अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमेऽहनि महाव्रतं विश्वजित्स्तोमोऽतिरात्रः ।

इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रमासते ।

तां दशमेनैवाह्ना सम्पादयन्ति ।

सम्पन्नायै वाचोऽविकृष्टायै प्रतिष्ठितायै महाव्रतमुपेतमसदिति ।

अन्नं वै महाव्रतम् ।

अन्नाद्यस्यैवावरुद्ध्यै ।

विश्वजित्स्तोमोऽतिरात्रो भवति ।

पराङिव ह वा एषः ।

स्वर्गमेव लोकमभिनिर्मृष्टो यद्विश्वजित्स्तोमोऽतिरात्रः ।

पराङेवैतेन स्वर्गं लोकमेति ।

तद्यच्चतुर्थस्तोम एकविंशो भवति प्रतिष्ठा वा एकविंशस्तेनैवास्यां प्रतितिष्ठति ३१९