त्रयो ह वा एषां लोकानां विषुवन्तोऽग्निर्वा अस्य लोकस्य विषुवान्वायुरन्तरिक्षस्य आदित्यो दिवः ।
तानेवैतेनातितरति ।
त्र्यनीको भवत्यैन्द्रो विजित्यै ।
त्र्यनीकेन वै देवसदनेन देवा असुरानजयन् ।
तस्माद्या अप्येतर्हि त्र्यनीका सेना भवति जयत्येव ।
तद्यथा त्र्यनीकया सेनया जेष्यन्त्योपप्रेयादेवमेवैतेन जेष्यन्स्वर्गं लोकमुपप्रैति जयति स्वर्गं लोकं य एवं वेद ।
अथ यस्यैतस्य ज्योतिरतिरात्रः पृष्ठ्यष्षडहः पञ्चविंशं महाव्रतं ज्योतिरतिरात्रोऽन्नाद्यकामो हैतेन यजेत ।
तदाहुर्न पुरा संवत्सरान्महाव्रतमुपेत्यमिति ।
तद्यत्पृष्ठ्यष्षडहो भवत्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरः कृत्स्नमन्नाद्यं पचति संवत्सराभिजितमेव तदन्नाद्यमुपयन्ति ।
पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।
ज्योतिरतिरात्र एतद्वै प्रज्ञातं देवतीर्थं यज्ज्योतिरतिरात्रः ।
प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचं अश्नवा इति ३१८