अथ यस्यैतस्य ज्योतिर्गौरायुरिति त्र्यहो ज्योतिर्गौरायुरिति त्र्यहो ज्योतिर्गौरायुरतिरात्रो यः कामयेत अनन्तर्हितानिमाल्ँ लोकानभ्यारोहेयमिति स एतेन यजेत ।
तद्यज्ज्योतिर्गौरायुरिति त्र्यहो भवत्ययं वै लोको ज्योतिरयं गौरसावायुरनन्तर्हितानेवैतेनेमाल्ँ लोकानभ्यारोहति ।
अतिरात्रावनुत्तमस्त्र्यहो भवति ।
एवंविधा इव वा इमे लोका अग्निष्टोम इवायं लोक उक्थ्य इवायमतिरात्र इवासौ ।
तद्यथाविधा इमे लोका एवमेवैनानेतदभ्यारोहन्नेति ।
अथ यस्यैतस्य ज्योतिर्गौरायुरतिरात्रो ज्योतिर्गौरायुरतिरात्रो ज्योतिर्गौरायुरतिरात्रो य उ एव कामयेत अनन्तर्हितानिमाल्ँ लोकानभ्यारोहेयमिति स एतेन यजेत ।
तद्यज्ज्योतिर्गौरायुरतिरात्रो भवत्ययं वै लोको ज्योतिरयं गौरसावायुरनन्तर्हितानेवैतेनेमाल्ँ लोकानभ्यारोहति ।
अतिरात्रवन्तस्त्र्यहा भवन्ति ।
अथो एवंविधा इव वा इमे लोका अग्निष्टोम इवायं लोक उक्थ्य इवायमतिरात्र इवासौ ।
तद्यथाविधा इमे लोका एवमेवैनानेतदभ्यारोहन्नेति ३१७