अथैते नवरात्राः ।
तेजस्कामो हैतेन यजेत यन्नवरात्रः ।
तेजो वै त्रिवृत्स्तोमः ।
त्रिवृतमेष स्तोमं यज्ञोऽभिसम्पन्नः ।
तस्मादु हैनेन तेजस्कामो यजेत ।
अथो आहुर्ब्रह्मवर्चसकाम एवैनेन यजेतेति ।
ब्रह्म वै त्रिवृत्स्तोमः ।
त्रिवृतमेष स्तोमं यज्ञोऽभिसम्पन्नः ।
तस्मादु हैनेन ब्रह्मवर्चसकामो यजेत ।
अथो आहुरायुष्काम एवैनेन यजेतेति ।
प्राणो वै त्रिवृत्स्तोमः ।
नवैतान्यहानि भवन्ति रात्रिर्दशमी ।
नव पुरुषे प्राणा नाभिर्दशमी ।
प्राणानेवैतेनाभिजयति प्राणानाप्नोति ।
तदाहुः किमनु नवरात्र इति ।
दिश इति ब्रूयात् ।
दिशो ह वा अनु नवरात्रः ।
चतस्रो दिशश्चत्वारोऽवान्तरदेशा ऊर्ध्वा दिङ्नवम्यर्वाची दशमी ।
दिश एवैतेनर्ध्नोति ।
दिक्षु प्रतिष्ठाय स्वर्गं लोकमेति ३१६