अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिरग्निष्टोमो मध्ये भवति ज्योतिरतिरात्र उपरिष्टाद्यः कामयेता मे ब्रह्मवर्चसी प्रजायां जायेतेति स एतेन यजेत ।
आत्म वै पृष्ठ्यष्षडहः ।
तेजो वै ब्रह्मवर्चसं ज्योतिरग्निष्टोमः ।
मध्यत उ वा आत्मनः प्रजननम् ।
तद्यन्मध्ये ज्योतिरग्निष्टोमो भवति मध्यत एवैतदात्मनो ज्योतिर्धत्त आ हास्य ब्रह्मवर्चसी प्रजायां जायते ।
ज्योतिरतिरात्र उपरिष्टादेतद्वै प्रज्ञातं देवतीर्थं यज्ज्योतिरतिरात्रः प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्टा उदृचमश्नवामहा इति ।
अथ यस्यैतस्य विश्वजिदभिजितावग्निष्टोमावभितो भवत उभयतो ज्योतिष्षडहो मध्ये पशुकामो हैतेन यजेत ।
चत्वार एते मध्य उक्थ्या भवन्ति ।
पशवो वा उक्थानि ।
तेषां सहस्रं स्तोत्रियाः ।
चत्वार उ वैतेऽग्निष्टोमा अभितो भवन्ति ।
ब्रह्म वै ज्योतिरग्निष्टोमः ।
ब्रह्मणैव तदुभयतः पशून्परिगृह्णीतेऽपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद ।
ईश्वरो ह तु यादृश एव सन्यजते तादृङ्भवितोः ।
स यदैवान्तगत इव श्रियै मन्येताथ हैनेन यजेत ।
इष्ट्वा हैव स्वर्गं लोकं एति ३१५