अथैष पृष्ठ्यष्षडहः पञ्चविंशं महाव्रतं सर्वस्तोमोऽतिरात्रः ।
अन्नाद्यकामो हैतेन यजेत ।
तदाहुर्न पुरा संवत्सरान्महाव्रतमुपेत्यमिति ।
तद्यत्पृष्ठ्यष्षडहो भवत्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरः कृत्स्नमन्नाद्यं पचति संवत्सराभिजितमेव तदन्नाद्यमुपयन्ति ।
पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।
सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।
सर्वं हीदं स्तोमा एव ।
अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति ।
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाश्चतुर्विंशमहर्विश्वजित्सर्वपृष्ठोऽतिरात्रो यः कामयेत परोक्षोपेतं मे महाव्रतं स्यादिति स एतेन यजेत ।
तद्यच्चतुर्विंशमहर्भवति तेनैवास्य परोक्षोपेतं महाव्रतं भवति ।
यद्वेव तत्र हिङ्कारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद्भवति तेनैवास्य पञ्चविंश्युपाप्ता भवति ।
विश्वजित्सर्वपृष्ठोऽतिरात्रो भवति ।
श्रीर्वै वर्ष्म पृष्ठानि ।
श्रियमेव तद्वर्ष्म पृष्ठान्यभ्यारोहन्ति ३१४