अथ यस्यैतस्य ज्योतिरग्निष्टोमः पृष्ठ्यष्षडहो ज्योतिरग्निष्टोमो यः कामयेत तेजस्वी ब्रह्मवर्चस्यस्मिल्ँ लोके स्यां गच्छेयं स्वर्गं लोकं तेजस्वी ब्रह्मवर्चस्यमुष्मिल्ँ लोके स्यामिति स एतेन यजेत ।
तद्यत्पुरस्ताज्ज्योतिरग्निष्टोमो भवति तेजो वै ब्रह्मवर्चसं ज्योतिरग्निष्टोमस्तेनैवास्मिल्ँ लोके तेजस्वी ब्रमवर्चसी भवति ।
पृष्ठ्यष्षडहो भवति स्वर्गो वै लोकः पृष्ठ्यष्षडह स्वर्गमेवैतेन लोकं गच्छति ।
ज्योतिरग्निष्टोम उपरिष्टाद्भवति तेजो वै ब्रह्मवर्चसं ज्योतिरग्निष्टोमस्तेनैवामुष्मिल्ँ लोके ब्रह्मवर्चसी भवति ।
अथ यस्यैतस्य ज्योतिरतिरात्रः पृष्ठ्यष्षडहो ज्योतिरतिरात्रो यः कामयेत प्रत्यस्मिल्ँ लोके तिष्ठेयं गच्छेयं स्वर्गं लोकं प्रत्यमुष्मिल्ँ लोके तिष्ठेयमिति स एतेन यजेत ।
तद्यत्पुरस्ताज्ज्योतिरतिरात्रो भवत्येषा वै कृत्स्ना प्रतिष्ठा यज्ज्योतिरतिरात्रस्तेनैवास्मिल्ँ लोके प्रतितिष्ठति ।
पृष्ठ्यष्षडहो भवति स्वर्गो वै लोकः पृष्ठ्यष्षडह स्वर्गमेवैतेन लोकं गच्छति ।
ज्योतिरतिरात्र उपरिष्टाद्भवत्येष वै कृत्स्ना प्रतिष्ठा यज्ज्योतिरतिरात्रस्तेनैवामुष्मिल्ँ लोके प्रतितिष्ठति ३१२