अथैतेऽष्टरात्राः ।
बृहस्पतिर्वा अकामयत तेजस्वी ब्रह्मवर्चसी स्यां यशो देवेषु गच्छेयमिति ।
स एतमष्टरात्रं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै स तेजस्वी ब्रह्मवर्चस्यभवद्यशो देवेष्वगच्छत् ।
यशो ह्येष तदगच्छद्यदेषां पुरोधामाश्नुत ।
तेजस्वी ब्रह्मवर्चसी भवति यशो देवेषु गच्छति य एवं वेद ।
अथो आहुरायुष्काम एवैनेन यजेतेति ।
प्राणो वै गायत्री ।
गायत्रीमेष यज्ञोऽभि सम्पन्नः ।
तस्मादु हैनेनायुष्कामो यजेत ।
अथो आहुः पशुकाम एवैनेन यजेतेति ।
अष्टाक्षरा वै गायत्री ।
अष्टाशफाः पशवः ।
पशवो गायत्री ।
गायत्रीमेष यज्ञोऽभि सम्पन्नः ।
तस्मादु हैनेन पशुकामो यजेत ।
प्रजापतिर्वा अकामयतास्माल्लोकादमुं लोकं गच्छेयमिति ।
स एतमष्टरात्रं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै सोऽस्माल्लोकादमुं लोकमाष्ट ।
यदस्माल्लोकादमुं लोकमाष्ट तदष्टरात्राणामष्टरात्रत्वम् ।
अष्टे हास्माल्लोकादमुं लोकं य एवं वेद ।
तदाहुः किमन्वष्टरात्र इति ।
दिश इति ब्रूयात् ।
दिशो ह वा अन्वष्टरात्रः ।
चतस्रो दिशश्चत्वारोऽवान्तरदेषाः ।
ऊर्ध्वा दिङ्नवमी ।
अष्टावेतान्यहानि भवन्ति रात्रिर्नवमी ।
दिश एवैतेनर्ध्नोति दिक्षु प्रतिष्ठाय स्वर्गं लोकमेति ३११