अथैतौ संसङ्ग्यौ ।
जमदग्निर्ह वै माहेनानां पुरोहित आस ।
तान्ह वित्तेनात्यादधौ ।
त उ हैनमुपजिहिंसुः ।
स हेक्षां चक्रे कथं न्वहमेषां सप्त सप्तैकाहनि ग्राम्याणां पशूनां हन्यामिति ।
स एतौ यज्ञावपश्यत् ।
तावाहरत ।
ताभ्यामयजत ।
ततो वै स तेषां सप्त-सप्तैकाहनि ग्राम्याणां पशूनामहन् ।
स वा एषोऽछिद्रो वज्रः ।
तान्ह स्मैतेनैवाछिद्रे ण वज्रेणोपप्रवर्तयति ।
तद्यथा मत्येन तिलांस्तृंह्यादेवं ह स्मैवैनांस्तत्तृढानपोप्तानभिव्युच्छति ।
स यो भ्रातृव्यवान्स्याद्योऽभिचरेद्य स्पर्धेत स एताभ्यां यजेत ।
एतेनैवाछिद्रे ण वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणुते ।
अथो आहुः प्रजाकाम एवाभ्यां यजेतेति ।
स्तोमो वा एतत्स्तोमेन संसक्तो भवति संसक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।
अथैतत्सप्तदशं सप्तममहर्भवति ।
तस्मिन्महाव्रतमुपयन्ति ।
प्रजापतिर्वै सप्तदशः ।
अन्नं महाव्रतं स्व एव तदायतने प्रजापतिमन्नाद्येन समर्धयन्ति ३१०