३०९

पृष्ठ्य एव षडहोऽथ यत्सप्तममहस्तत्सर्वमेव चतुर्विंशं पञ्चविंशं महाव्रतं चतुस्त्रिंशमग्निष्टोमसाम ।

आप्यत इव वा एतद्यज्ञो यदेष पृष्ठ्यष्षडह आप्यत इति ।

तद्यत्सप्तममहस्सर्वमेव चतुर्विंशं भवति सर्वेणैवाह्ना यज्ञ आरब्धोऽसदिति ।

पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।

चतुस्त्रिंशमग्निष्टोमसाम ।

त्रयस्त्रिंशद्वै देवताः ।

प्रजापतिश्चतुस्त्रिंशः ।

सप्रजापतिकास्वेवैतद्देवतासु यज्ञस्यान्ततः प्रतितिष्ठति ।

पृष्ठ्य एव षडहोऽथ यत्सप्तममहस्तस्य छन्दोमाः पवमानाश्चतुस्त्रिंशं पुनरभ्यावर्ति पञ्चविंशं महाव्रतं त्रयस्त्रिंशमग्निष्टोमसाम ।

यः कामयेतोपेत्य पृष्ठान्युपेत्य छन्दोमान्महाव्रतं म उपेतं स्यादिति स एतेन यजेत ।

उपेत्य हैव पृष्ठान्युपेत्य छन्दोमान्महाव्रतमस्योपेतं भवत्यन्नं वै महाव्रतमन्नाद्यस्यैवावरुद्ध्यै ।

चतुस्त्रिंशं पुनरभ्यावर्ति ।

त्रयस्त्रिंशद्वै देवताः ।

प्रजापतिश्चतुस्त्रिंशः ।

सप्रजापतिकास्वेवैतद्देवतासु प्रतितिष्ठति ।

पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।

त्रयस्त्रिंशमग्निष्टोमसाम त्रयस्त्रिंशद्वै देवता देवतानामेवाप्त्यै ३०९