३०८

पृष्ठ्यष्षडहोऽथ यत्सप्तममहस्तस्य चतुर्विंशं बहिष्पवमानं त्रयस्त्रिंशान्युत्तराणि स्तोत्राणि पञ्चविंशं महाव्रतं चतुस्त्रिंशमग्निष्टोमसाम ।

आप्यत इव वा एतद्यज्ञो यदेष पृष्ठ्यष्षडह आप्यत इति ।

तद्यत्सप्तमस्याह्नश्चतुर्विंशं बहिष्पवमानं भवति चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरो यज्ञो यज्ञमेवैतद्यज्ञमुख आरभन्ते ।

अथो चतुर्विंशत्यक्षरा वै गायत्री ।

गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस्तन्वते ।

तेनो ह्यन्या गायत्र्या आप्तं यज्ञक्रतुमुद्यन्तुमर्हति ।

त्रयस्त्रिंशान्युत्तराणि स्तोत्राणि त्रयस्त्रिंशद्वै देवता देवतानामेवाप्त्यै ।

पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।

चतुस्त्रिंशमग्निष्टोमसाम ।

त्रयस्त्रिंशद्वै देवताः ।

प्रजापतिश्चतुस्त्रिंशः ।

सप्रजापतिकास्वेवैतद्देवतासु यज्ञस्यान्ततः प्रतितिष्ठति ।

पृष्ठ्य एव षडहोऽथ यत्सप्तममहस्तस्य चतुर्विंशाः पवमानास्त्रयस्त्रिंशं पुनरभ्यावर्ति पञ्चविंशं महाव्रतं चतुस्त्रिंशमग्निष्टोमसाम ।

आप्यत इव वा एतद्यज्ञो यदेष पृष्ठ्यष्षडह आप्यत इति ।

तद्यत्सप्तमस्याह्नश्चतुर्विंशाः पवमाना भवन्ति सवनमुखे सवनमुखे नो यज्ञ आरब्धोऽसदिति ।

त्रयस्त्रिंशं पुनरभ्यावर्ति त्रयस्त्रिंशद्वै देवता देवतानामेवाप्त्यै ।

पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।

चतुस्त्रिंशमग्निष्टोमसाम ।

त्रयस्त्रिंशद्वै देवताः ।

प्रजापतिश्चतुस्त्रिंशः ।

सप्रजापतिकास्वेवैतद्देवतासु यज्ञस्यान्ततः प्रतितिष्ठति ३०८