एते बाबरयः कुरुषु पणाय्या एव ।
स ह स्म तद्देवयजने परिचरतीदमयज इदमु नायज इति ।
अथ यस्यैतस्य ज्योतिर्गौरायुरिति त्र्यहो विश्वजित्सर्वपृष्ठ्य उक्थ्यष्षोडशिमाञ्छन्दोमपवमानः सर्वस्तोम उक्थ्यः पञ्चविंशं महाव्रतं ज्योतिरतिरात्रो यः कामयेतोपेत्याभिप्लवमुपेत्य पृष्ठान्युपेत्य छन्दोमान्महाव्रतं म उपेतं स्यादिति स एतेन यजेत ।
उपेत्य हैवाभिप्लवमुपेत्य पृष्ठान्युपेत्य छन्दोमान्महाव्रतमस्योपेतं भवत्यन्नं वै महाव्रतमन्नाद्यस्यैवावरुद्ध्यै ।
तदाहुर्न पुरा संवत्सरान्महाव्रतमुपेत्यमिति ।
तद्यत्पृष्ठ्यष्षडहो भवत्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरः कृत्स्नमन्नाद्यं पचति संवत्सराभिजितमेव तदन्नाद्यमुपयन्ति ।
पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।
ज्योतिरतिरात्रः ।
एतद्वै प्रज्ञातं देवतीर्थं यज्ज्योतिरतिरात्रः ।
प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचं अश्नवा इति ३०७